मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४४, ऋक् ५

संहिता

सं॒जर्भु॑राण॒स्तरु॑भिः सुते॒गृभं॑ वया॒किनं॑ चि॒त्तग॑र्भासु सु॒स्वरु॑ः ।
धा॒र॒वा॒केष्वृ॑जुगाथ शोभसे॒ वर्ध॑स्व॒ पत्नी॑र॒भि जी॒वो अ॑ध्व॒रे ॥

पदपाठः

स॒म्ऽजर्भु॑राणः । तरु॑ऽभिः । सु॒ते॒ऽगृभ॑म् । व॒या॒किन॑म् । चि॒त्तऽग॑र्भासु । सु॒ऽस्वरुः॑ ।
धा॒र॒ऽवा॒केषु॑ । ऋ॒जु॒ऽगा॒थ॒ । शो॒भ॒से॒ । वर्ध॑स्व । पत्नीः॑ । अ॒भि । जी॒वः । अ॒ध्व॒रे ॥

सायणभाष्यम्

हेऋजुगाथ शोभनस्तुतिकाग्ने तरुभिः तरुविकारैर्ग्रहैः सुतेगृभं अभिषुतेनरसेनगृहीतं वयाकिनं कुत्सिताः अल्पाः वयाः शाखावयाकाः लताः तद्वन्तं सोमं चित्तगर्भासु चित्तग्राहिणीषु स्तुतिभिः सह संजर्भुराणः गृभ्णन् गृह्णन् सुस्वरुःशोभ्नगमनःशोभनस्तुतिकोवा त्वं धारवाकेषु धारयन्तिवाकान् स्तोत्राणीतिधारवाकाऋत्विग्यजमानाः तेषुमध्येशोभसे किंच अध्वरे जीवः सर्वस्यजीवयिता पत्नीः पालयित्रीः ओषधीर्ज्वालावा अभि अभिमुखंवर्धस्वअभिवर्धय ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३