मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४४, ऋक् ६

संहिता

या॒दृगे॒व ददृ॑शे ता॒दृगु॑च्यते॒ सं छा॒यया॑ दधिरे सि॒ध्रया॒प्स्वा ।
म॒हीम॒स्मभ्य॑मुरु॒षामु॒रु ज्रयो॑ बृ॒हत्सु॒वीर॒मन॑पच्युतं॒ सहः॑ ॥

पदपाठः

या॒दृक् । ए॒व । ददृ॑शे । ता॒दृक् । उ॒च्य॒ते॒ । सम् । छा॒यया॑ । द॒धि॒रे॒ । सि॒ध्रया॑ । अ॒प्ऽसु । आ ।
म॒हीम् । अ॒स्मभ्य॑म् । उ॒रु॒ऽसाम् । उ॒रु । ज्रयः॑ । बृ॒हत् । सु॒ऽवीर॑म् । अन॑पऽच्युतम् । सहः॑ ॥

सायणभाष्यम्

एषावैश्वदेवी यादृगेवददृशे यादृग्रूपमेवददृशे तादृगुच्यते तादृग्रूपमेवोच्यते यथादृष्टमेवस्तूयतेनतुपरवचनप्रत्ययेन यस्माच्छायया दीप्त्या सिध्रया साधिकयासह अप्सु व्यापकासु स्तुतिषु अप्स्वेववाआसंदधिरे सम्यग्धारयन्ति स्वीयंरूपंस्तुतिंवा तेदेवामहींमहतींपूज्यामुरुषां बहुदात्रीं रयिं उरु प्रभूतं ज्रयोवेगं बृहन्महत् सुवीरं शोभनवीर्यमपत्यं अनपच्युतं अनुपक्षीणं सहोबलंचाभिभावुकम -स्मभ्यंप्रयच्छंत्वित्यर्थः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४