मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४४, ऋक् ७

संहिता

वेत्यग्रु॒र्जनि॑वा॒न्वा अति॒ स्पृधः॑ समर्य॒ता मन॑सा॒ सूर्य॑ः क॒विः ।
घ्रं॒सं रक्ष॑न्तं॒ परि॑ वि॒श्वतो॒ गय॑म॒स्माकं॒ शर्म॑ वनव॒त्स्वाव॑सुः ॥

पदपाठः

वेति॑ । अग्रुः॑ । जनि॑ऽवान् । वै । अति॑ । स्पृधः॑ । स॒ऽम॒र्य॒ता । मन॑सा । सूर्यः॑ । क॒विः ।
घ्रं॒सम् । रक्ष॑न्तम् । परि॑ । वि॒श्वतः॑ । गय॑म् । अ॒स्माक॑म् । शर्म॑ । व॒न॒व॒त् । स्वऽव॑सुः ॥

सायणभाष्यम्

इयंसौरी सूर्योदेवः अग्रुरग्रगामी जनिवान्वै जन्मवान् जायावान्वा उषाह्यस्यजायावाइतिप्रसिद्धौ कविः क्रान्तदर्शी समर्यता समरमिच्छता मनसास्पृधः संग्रामान् अतिवेति अतिगच्छति मंदेहानसुरान्योद्धुं घ्रंसं दीप्तं गयं गृहंअंतरिक्षंवा विश्वतः सर्वतोरक्षन्तंपरिचरेमेतिशेषः सदेवोस्माकं शर्म सुखं परि सम्यक् वनवत् दद्यात् स्वावसुः स्वायत्तधनः सन् ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४