मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४४, ऋक् ९

संहिता

स॒मु॒द्रमा॑सा॒मव॑ तस्थे अग्रि॒मा न रि॑ष्यति॒ सव॑नं॒ यस्मि॒न्नाय॑ता ।
अत्रा॒ न हार्दि॑ क्रव॒णस्य॑ रेजते॒ यत्रा॑ म॒तिर्वि॒द्यते॑ पूत॒बन्ध॑नी ॥

पदपाठः

स॒मु॒द्रम् । आ॒सा॒म् । अव॑ । त॒स्थे॒ । अ॒ग्रि॒मा । न । रि॒ष्य॒ति॒ । सव॑नम् । यस्मि॑न् । आऽय॑ता ।
अत्र॑ । न । हार्दि॑ । क्र॒व॒णस्य॑ । रे॒ज॒ते॒ । यत्र॑ । म॒तिः । वि॒द्यते॑ । पू॒त॒ऽबन्ध॑नी ॥

सायणभाष्यम्

इयमसौरी आसांस्तुतीनां समुद्रं समुद्रवत्पर्यवसानभूतंसूर्यं अग्निमा अत्यन्तंश्रेष्ठा अस्मदीयास्तुतिरवतस्थेअवगच्छति यद्वा आसांप्रजानांऋत्विजांस्तुतिरितिसंबन्धः सवनं सूयतेसोमोत्रेतिसवनं यज्ञगृहं नरिष्यति नहिंस्यते किंतु प्रवर्धतइत्यर्थः यस्मिन्नायताविस्तीर्णानि स्तोत्राणि तत्सदनमिति अत्रास्मिन्यजमानगृहे क्रवणस्य स्तुतिकर्तुः हार्दि हृदयसंबन्धि हृदयगतंकाम्यंफलं नरेजते नविचलति नमृषाभवति यत्र यस्मिन् स्तोतृगृहे मतिः स्तुतिः पूतबन्धनी पूतं सूर्यं अनुबध्रन्तीविद्यते अत्रनरेजतइति ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४