मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४४, ऋक् १०

संहिता

स हि क्ष॒त्रस्य॑ मन॒सस्य॒ चित्ति॑भिरेवाव॒दस्य॑ यज॒तस्य॒ सध्रे॑ः ।
अ॒व॒त्सा॒रस्य॑ स्पृणवाम॒ रण्व॑भि॒ः शवि॑ष्ठं॒ वाजं॑ वि॒दुषा॑ चि॒दर्ध्य॑म् ॥

पदपाठः

सः । हि । क्ष॒त्रस्य॑ । म॒न॒सस्य॑ । चित्ति॑ऽभिः । ए॒व॒ऽव॒दस्य॑ । य॒ज॒तस्य॑ । सध्रेः॑ ।
अ॒व॒ऽत्सा॒रस्य॑ । स्पृ॒ण॒वा॒म॒ । रण्व॑ऽभिः । शवि॑ष्ठम् । वाज॑म् । वि॒दुषा॑ । चि॒त् । अर्ध्य॑म् ॥

सायणभाष्यम्

इयमपिसौरी सहि सखलुसवितादेवः सर्वैःस्तुत्यः सर्वकामपूरकइत्यर्थः हिशब्दोलोकवेदयोः प्रसिद्धिद्योतकः तस्मात्सकाशात् अत्रान्येचऋषयोत्रदृष्टलिंगाइत्युक्तत्वात् क्षत्रादयऋषयः क्षत्रस्य्मनसस्य एवावदस्ययजतस्य सध्रेः अवत्सारस्यचैषामृषीणामस्माकं रण्वभीरमणीयाभिश्चित्तिभिः मनोरथैः स्पृणवाम पूरयाम किंशविष्ठंवाजं अतिशयेनबलवदन्नंअन्नंवैवाजइतिश्रुतेः । विदुषाचित् विपश्चिता अर्ध्यं समर्धनीयंस्पृणवाम क्षत्रादयोनयमितिसंबन्धः ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४