मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४४, ऋक् ११

संहिता

श्ये॒न आ॑सा॒मदि॑तिः क॒क्ष्यो॒३॒॑ मदो॑ वि॒श्ववा॑रस्य यज॒तस्य॑ मा॒यिनः॑ ।
सम॒न्यम॑न्यमर्थय॒न्त्येत॑वे वि॒दुर्वि॒षाणं॑ परि॒पान॒मन्ति॒ ते ॥

पदपाठः

श्ये॒नः । आ॒सा॒म् । अदि॑तिः । क॒क्ष्यः॑ । मदः॑ । वि॒श्वऽवा॑रस्य । य॒ज॒तस्य॑ । मा॒यिनः॑ ।
सम् । अ॒न्यम्ऽअ॑न्यम् । अ॒र्थ॒य॒न्ति॒ । एत॑वे । वि॒दुः । वि॒ऽसान॑म् । प॒रि॒ऽपान॑म् । अन्ति॑ । ते ॥

सायणभाष्यम्

मददेवत्येयं विश्ववारादीनांत्रयाणामृषीणांस्वभूतः आसामपां सोमरसलक्षणानां मदः श्येनः शंसनीयगमनः शीघ्रंपातृसकाशगन्ता अदितिरदीनः अतिस्मृद्धः कक्ष्यकक्ष्यपूरकश्चभवतीतिशेषः तेविशवारादयः सत्रेप्रवृत्ताएतवे सोमंप्राप्तुंतत्पानाय अन्यमन्यं परस्परंसमर्थयंति याचन्ते अनुज्ञां तेविषाणं विशेषेणमदस्यदातारं परिपानं अन्ति अन्तिके विदुर्जानंतिलभन्तेवा ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५