मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४४, ऋक् १२

संहिता

स॒दा॒पृ॒णो य॑ज॒तो वि द्विषो॑ वधीद्बाहुवृ॒क्तः श्रु॑त॒वित्तर्यो॑ व॒ः सचा॑ ।
उ॒भा स वरा॒ प्रत्ये॑ति॒ भाति॑ च॒ यदीं॑ ग॒णं भज॑ते सुप्र॒याव॑भिः ॥

पदपाठः

स॒दा॒ऽपृ॒णः । य॒ज॒तः । वि । द्विषः॑ । व॒धी॒त् । बा॒हु॒ऽवृ॒क्तः । श्रु॒त॒ऽवित् । तर्यः॑ । वः॒ । सचा॑ ।
उ॒भा । सः । वरा॑ । प्रति॑ । ए॒ति॒ । भाति॑ । च॒ । यत् । ई॒म् । ग॒णम् । भज॑ते । सु॒प्र॒याव॑ऽभिः ॥

सायणभाष्यम्

सदापृणः सर्वदादानशीलः एतन्नामा यजतोयष्टाच बाहुवृक्तः बाहुभ्यांवृक्तदर्भश्च श्रुतवित् श्रुत्रस्यवेत्ताच तर्यश्च एतेषांपंचानांपरस्परापेक्षयाप्रत्येकमेकवचनं ससऋषिर्विद्विषः शत्रून् वधीत् हिंस्यात् वोयुष्माकं सचा सहितः युष्माभिः सहितइत्यर्थः सऋषिः वरा श्रेष्ठौ उभा उभौ इहलोकपरलोकविषयौकामौ प्रत्येति अभिगच्छति भातिच यद्यस्मादीमेनंगणं देवसंघं सुप्रयावभिः सुष्ठ्रप्रकर्षेणमिश्रयद्भिः स्तोत्रैः भजते तस्मादेवंभातीति ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५