मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४४, ऋक् १३

संहिता

सु॒त॒म्भ॒रो यज॑मानस्य॒ सत्प॑ति॒र्विश्वा॑सा॒मूध॒ः स धि॒यामु॒दञ्च॑नः ।
भर॑द्धे॒नू रस॑वच्छिश्रिये॒ पयो॑ऽनुब्रुवा॒णो अध्ये॑ति॒ न स्व॒पन् ॥

पदपाठः

सु॒त॒म्ऽभ॒रः । यज॑मानस्य । सत्ऽप॑तिः । विश्वा॑साम् । ऊधः॑ । सः । धि॒याम् । उ॒त्ऽअञ्च॑नः ।
भर॑त् । धे॒नुः । रस॑ऽवत् । शि॒श्रि॒ये॒ । पयः॑ । अ॒नु॒ऽब्रु॒वा॒णः । अधि॑ । ए॒ति॒ । न । स्व॒पन् ॥

सायणभाष्यम्

यजमानस्यावत्सारस्य मम सुतंभरोयागनिर्वाहकएतन्नामाऋषिः सत्पतिः सतांविद्यमानानांफलानांपालयिता होतादाताभवतीत्यर्थः सच विश्वासांधियांसर्वेषांकर्मणां ऊधः उद्धततरंफलं उदंचनः ऊर्ध्वमुद्गमयिता फलप्रापकइत्यर्थः धेनुर्गौः रसवत् सारवत्पयोभरत् अहरत् तत्र पयःशिश्रिये श्रयतिचास्यसामर्थ्यात् तत्सर्वमनुब्रुवाणः अनुक्रमेणसंकीर्तयन् नस्वपन् स्वापमकुर्वन् अनवरतमध्येति स्मरति अवत्सारः सुतंभरस्तादृशइति ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५