मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४५, ऋक् १

संहिता

वि॒दा दि॒वो वि॒ष्यन्नद्रि॑मु॒क्थैरा॑य॒त्या उ॒षसो॑ अ॒र्चिनो॑ गुः ।
अपा॑वृत व्र॒जिनी॒रुत्स्व॑र्गा॒द्वि दुरो॒ मानु॑षीर्दे॒व आ॑वः ॥

पदपाठः

वि॒दाः । दि॒वः । वि॒ऽस्यन् । अद्रि॑म् । उ॒क्थैः । आ॒ऽय॒त्याः । उ॒षसः॑ । अ॒र्चिनः॑ । गुः॒ ।
अप॑ । अ॒वृ॒त॒ । व्र॒जिनीः॑ । उत् । स्वः॑ । गा॒त् । वि । दुरः॑ । मानु॑षीः । दे॒वः । आ॒व॒रित्या॑वः ॥

सायणभाष्यम्

अत्रेन्द्रादयोलिंगोक्तदेवताः अत्रांगिरसां पणिभिरपहृत्यगिरेरधः स्थापितानांगवामिन्द्रेणविमोकःप्रतिपाद्यते विदाः अवेदयदिन्द्रः किं गानिगूढाः इतिसंबन्धः किंकुर्वन् उक्थैरंगिरसांस्तुतिभिः निमित्तभूताभीः अद्रिं वज्रं विष्यन् प्रक्षिपन् रक्षकाणामुपरि गिरिभेदनायच विष्यन् आयत्याः आगामिन्याउषसःसंबन्धिनोर्चिनोरश्मयोगुः अगच्छन् सर्वत्रप्रसृताअभवन् अपावृत अपावृणोत् व्रजिनीः तमः पुंजवतीर्निशाः स्वः स्वरणशीलआदित्यः उद्बात् उदगात् तथाकृत्वा मानुषीः मनुष्यसंबन्धिनीः दुरोद्वाराणि देवः सूर्योव्यावः व्यवृणोत् अन्धकारापनयनेनमनुष्यादिव्यवहारायाकरोदित्यर्थः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६