मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४५, ऋक् २

संहिता

वि सूर्यो॑ अ॒मतिं॒ न श्रियं॑ सा॒दोर्वाद्गवां॑ मा॒ता जा॑न॒ती गा॑त् ।
धन्व॑र्णसो न॒द्य१॒॑ः खादो॑अर्णा॒ः स्थूणे॑व॒ सुमि॑ता दृंहत॒ द्यौः ॥

पदपाठः

वि । सूर्यः॑ । अ॒मति॑म् । न । श्रिय॑म् । सा॒त् । आ । ऊ॒र्वात् । गवा॑म् । मा॒ता । जा॒न॒ती । गा॒त् ।
धन्व॑ऽअर्णसः । न॒द्यः॑ । खादः॑ऽअर्णाः । स्थूणा॑ऽइव । सुऽमि॑ता । दृं॒ह॒त॒ । द्यौः ॥

सायणभाष्यम्

सूर्योदेवः श्रियंदीप्तिं विसात् विभजते प्रकाशयतीत्यर्थः अमतिंन रूपनामैतत् रूपमिव्द्रव्यं यथा द्रव्याणि घटपटादीनिनीलपीतादिरूपंलभन्तेतद्वत् तथा गवांरश्मीनांमातोषा जानती सूर्यउदेष्यति मयाच व्युच्छनंकर्तव्यमितिजानती ऊर्वात् महतोन्तरिक्षात् आगादागच्छति तथानद्यश्च धन्वर्णसः धन्वतिर्गतिकर्मा धन्वंति गच्छन्ति अर्णांसि यासु तास्तथोक्ताः दीर्घाभावश्छान्दसः खादोअर्णाः भक्षितकूलोदकाः कूलंकषाइत्यर्थः नद्यश्चैवंरूपाभवन्ति किंच द्यौश्चसुमिता सुष्ठुगृहेस्थापिता स्थूणेव गृहाधारस्तंभइव दृंहत दृढाभवत् एतत्सर्वंसूर्यस्याज्ञयेतिभावः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६