मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४५, ऋक् ४

संहिता

सू॒क्तेभि॑र्वो॒ वचो॑भिर्दे॒वजु॑ष्टै॒रिन्द्रा॒ न्व१॒॑ग्नी अव॑से हु॒वध्यै॑ ।
उ॒क्थेभि॒र्हि ष्मा॑ क॒वयः॑ सुय॒ज्ञा आ॒विवा॑सन्तो म॒रुतो॒ यज॑न्ति ॥

पदपाठः

सु॒ऽउ॒क्तेभिः॑ । वः॒ । वचः॑ऽभिः । दे॒वऽजु॑ष्टैः । इन्द्रा॑ । नु । अ॒ग्नी इति॑ । अव॑से । हु॒वध्यै॑ ।
उ॒क्थेभिः । हि । स्म॒ । क॒वयः॑ । सु॒ऽय॒ज्ञाः । आ॒ऽविवा॑सन्तः । म॒रुतः॑ । यज॑न्ति ॥

सायणभाष्यम्

हेइन्द्रा हेअग्नी परस्परापेक्षयाप्रत्येकंद्विवचनं यद्यप्येकमेवपदं मध्येव्यवधानंछान्दसं हेइन्द्राग्नी वोयुवां व्यत्ययेनबहुवचनं देवजुष्टैः देवैः सेवनीयैः सूक्तेभिः सूक्तैः सुवचनैः शोभनगुणप्रकाशनप्रवणैः वचोभिरवसेस्मद्रक्षणाय हुवध्यै आह्वयामि नुक्षिप्रं युवामुक्थेभिः स्तोत्रैः कवयोनूचानाः पूर्वेऋषयः सुयज्ञाः शोभनयागाः आविवासन्तः स्तुत्यादिनापरिचरन्तः मरुतोमरुत्सदृशाः कर्मसुशीघ्राः यजन्ति पूजयन्ति हिस्मेतिपूरणौ ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६