मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४५, ऋक् ६

संहिता

एता॒ धियं॑ कृ॒णवा॑मा सखा॒योऽप॒ या मा॒ताँ ऋ॑णु॒त व्र॒जं गोः ।
यया॒ मनु॑र्विशिशि॒प्रं जि॒गाय॒ यया॑ व॒णिग्व॒ङ्कुरापा॒ पुरी॑षम् ॥

पदपाठः

आ । इ॒त॒ । धिय॑म् । कृ॒णवा॑म । स॒खा॒यः॒ । अप॑ । या । मा॒ता । ऋ॒णु॒त । व्र॒जम् । गोः ।
यया॑ । मनुः॑ । वि॒शि॒ऽशि॒प्रम् । जि॒गाय॑ । यया॑ । व॒णिक् । व॒ङ्कुः । आप॑ । पुरी॑षम् ॥

सायणभाष्यम्

इदमप्यंगिरसांवाक्यं एत आगच्छत आगत्यच धियं स्तुतिं कृणवाम करवाम हेसखायः परस्परंसखिभूताअंगिरसइत्यंगिरसांवचनं याधीः माता गवांनिर्मात्रीगोर्गवांव्रजंपणिभिरपहृतं अपऋणुत अपावृणोत् ययाच मनुः विशिशिप्रं विगतहनुं शत्रुंजिगाय जितवान् यद्वा मनुः सर्वस्यमन्तेन्द्रः विशिशिप्रोवृत्रः सतमस्माभिःकृतया स्तोमलक्षणयाधिया जिगाय याच वणिक् वणिगिवाल्पेनकर्मणा बहुफलाकांक्षी कक्षीवान् वंकुर्जलेच्छयावनगामी पुरीषं पूरकमुदकमाप याभिः सुदानुऔशिजायवणिजेदीर्घश्रवसेमधुकोशेइतिहिश्रुतं ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७