मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४५, ऋक् ८

संहिता

विश्वे॑ अ॒स्या व्युषि॒ माहि॑नाया॒ः सं यद्गोभि॒रङ्गि॑रसो॒ नव॑न्त ।
उत्स॑ आसां पर॒मे स॒धस्थ॑ ऋ॒तस्य॑ प॒था स॒रमा॑ विद॒द्गाः ॥

पदपाठः

विश्वे॑ । अ॒स्याः । वि॒ऽउषि॑ । माहि॑नायाः । सम् । यत् । गोभिः॑ । अङ्गि॑रसः । नव॑न्त ।
उत्सः॑ । आ॒सा॒म् । प॒र॒मे । स॒धऽस्थे॑ । ऋ॒तस्य॑ । प॒था । स॒रमा॑ । वि॒द॒त् । गाः ॥

सायणभाष्यम्

विश्वे सर्वे अंगिरसोमाहिनायाः मंहनीयायाः अस्याउषसोव्युषि व्युच्छ्नेसति गवामावरकेन्धकारे अपवृतेसति यद्यदा गोभिः संनवन्त संजग्मिरे तदा आसांगवां उत्सः क्षाराद्युत्स्रवः परमे उत्कृष्टे सधस्थे सहस्थाने यज्ञे उपयुक्तोभवदित्यर्थः ऋतस्य सत्यस्य पथा मार्गेण सरमा वाक् देवशुनीवा गानिगूढाविदत् अलभत् यद्वा आसांगवां परमेसधस्थेसहस्थाने व्रजस्य निगूहनप्रदेशे उत्सः उदकस्यप्रस्रवणोवर्ततेबिलमित्यर्थः तेन ऋतस्योदकस्य पथा मार्गेण सरमा गाविदत् ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७