मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४५, ऋक् १०

संहिता

आ सूर्यो॑ अरुहच्छु॒क्रमर्णोऽयु॑क्त॒ यद्ध॒रितो॑ वी॒तपृ॑ष्ठाः ।
उ॒द्ना न नाव॑मनयन्त॒ धीरा॑ आशृण्व॒तीरापो॑ अ॒र्वाग॑तिष्ठन् ॥

पदपाठः

आ । सूर्यः॑ । अ॒रु॒ह॒त् । शु॒क्रम् । अर्णः॑ । अयु॑क्त । यत् । ह॒रितः॑ । वी॒तऽपृ॑ष्ठाः ।
उ॒द्ना । न । नाव॑म् । अ॒न॒य॒न्त॒ । धीराः॑ । आ॒ऽशृ॒ण्व॒तीः । आपः॑ । अ॒र्वाक् । अ॒ति॒ष्ठ॒न् ॥

सायणभाष्यम्

सूर्योदेवः शुक्रं दीप्तं अर्णउदकंप्रति आरुहत् सर्वतःप्रादुर्भवति यद्यस्मात् यदावा हरितोश्वान् वीतपृष्ठाः कान्तपृष्ठानयुक्त रथेअयोजयत् तदा तंसूर्यं धीराधीमन्तोयजमानादयः उद्रा उदकेननावंन नावमिवानयन्त तदा आश्रृण्वतीः सर्वतोनुज्ञांकुर्वाणाआपोअर्वाक्अवाङ्मुखाअतिष्ठन् अभवन् ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७