मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४५, ऋक् ११

संहिता

धियं॑ वो अ॒प्सु द॑धिषे स्व॒र्षां ययात॑र॒न्दश॑ मा॒सो नव॑ग्वाः ।
अ॒या धि॒या स्या॑म दे॒वगो॑पा अ॒या धि॒या तु॑तुर्या॒मात्यंहः॑ ॥

पदपाठः

धिय॑म् । वः॒ । अ॒प्ऽसु । द॒धि॒षे॒ । स्वः॒ऽसाम् । यया॑ । अत॑रन् । दश॑ । मा॒सः । नव॑ऽग्वाः ।
अ॒या । धि॒या । स्या॒म॒ । दे॒वऽगो॑पाः । अ॒या । धि॒या । तु॒तु॒र्या॒म॒ । अति॑ । अंहः॑ ॥

सायणभाष्यम्

हेदेवाः वोयुष्माकं धियं स्तुतिं अप्सु अप् निमित्तां स्वर्षां सर्वस्यदात्रीं दधिषे धारयामि व्यत्ययेनमध्यमः ययाधिया कर्मणानवग्वाः अंगिरसः दशमासः अतरन् समनुतिष्ठन्तः अया अनयाधिया देवगोपाः देवैर्गुप्ताः स्यामभवेम अयाधिया अंहः पापं अतितुतुर्याम अतितरेम ॥ ११ ॥

हयोनविद्वानित्यष्टर्चंद्वितीयंसूक्तं प्रतिक्षत्रस्यार्षं अष्टमीद्वितीयाचत्रिष्टुभौ शिष्टाःषट्जगत्यः आदितः षट्वैश्वदेव्यः सप्तम्यष्टम्योर्देवपत्नयोदेवता तथाचानुक्रान्तं-हयोष्टौप्रतिक्षत्रोंत्योद्वृचोदेवपत्नीस्तवोंत्यात्रिष्टुप् द्वितीयाचेति । सूक्तविनियोगोलैंगिकः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७