मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४६, ऋक् १

संहिता

हयो॒ न वि॒द्वाँ अ॑युजि स्व॒यं धु॒रि तां व॑हामि प्र॒तर॑णीमव॒स्युव॑म् ।
नास्या॑ वश्मि वि॒मुचं॒ नावृतं॒ पुन॑र्वि॒द्वान्प॒थः पु॑रए॒त ऋ॒जु ने॑षति ॥

पदपाठः

हयः॑ । न । वि॒द्वान् । अ॒यु॒जि॒ । स्व॒यम् । धु॒रि । ताम् । व॒हा॒मि॒ । प्र॒तर॑णीम् । अ॒व॒स्युव॑म् ।
न । अ॒स्याः॒ । व॒श्मि॒ । वि॒ऽमुच॑म् । न । आ॒ऽवृत॑म् । पुनः॑ । वि॒द्वान् । प॒थः । पु॒रः॒ऽए॒ता । ऋ॒जु । ने॒ष॒ति॒ ॥

सायणभाष्यम्

हयोन अश्वइव विद्वान् सर्वज्ञः प्रतिक्षत्रः स्वयंअनन्यप्रेरितः सन् धुरि यज्ञात्मिकायां अयुजि युक्तोभवत् तांधुरं प्रतरणीं प्रकर्षेणतारयित्रीं अवस्युवं रक्षयित्रीं वहामि धारयाम्यहमध्वर्युर्होतावा अस्याधुरोविमुचंविमोचनंपरित्यागं नवश्मि नकामये नावृतं पुनः पुनःआवरणं धारणमपि नचवश्मि ममकोभारइति तदेवोच्यते विद्वान् मार्गाभिज्ञोन्तर्यामीदेवः पुरएता पुरतोगन्तासन् पथोयज्ञमार्गान् ऋजुअकुटिलं नेषति प्रापयति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८