मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४६, ऋक् २

संहिता

अग्न॒ इन्द्र॒ वरु॑ण॒ मित्र॒ देवा॒ः शर्ध॒ः प्र य॑न्त॒ मारु॑तो॒त वि॑ष्णो ।
उ॒भा नास॑त्या रु॒द्रो अध॒ ग्नाः पू॒षा भग॒ः सर॑स्वती जुषन्त ॥

पदपाठः

अग्ने॑ । इन्द्र॑ । वरु॑ण । मित्र॑ । देवाः॑ । शर्धः॑ । प्र । य॒न्त॒ । मारु॑त । उ॒त । वि॒ष्णो॒ इति॑ ।
उ॒भा । नास॑त्या । रु॒द्रः । अध॑ । ग्नाः । पू॒षा । भगः॑ । सर॑स्वती । जु॒ष॒न्त॒ ॥

सायणभाष्यम्

हेअग्ने इन्द्रवरुणमित्रदेवाः यूयं शर्धोबलमस्माकं प्रयन्त प्रापयत अत्रसर्वत्रपूर्वस्याविद्यमानत्वेनोत्तरस्यपादादित्वादनिघातः प्रथमस्यतु स्वतएवपादादित्वं उतअपिच हेमारुत मारुतानि मरुतांबलानि हेविष्णो यूयंशर्धः प्रयन्त विष्णोइत्यस्यउतेत्यनेनव्यवधानान्निघातः किं च उभा उभौ नासत्या सत्यभूतौ रुद्रः अध अथ ग्नाः एतेषांदेवानांस्त्रियश्च पूषा भगः सरस्वतीच जुषन्त सेवन्तां अस्मदीयंयज्ञंस्तुतिंवा ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८