मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४६, ऋक् ३

संहिता

इ॒न्द्रा॒ग्नी मि॒त्रावरु॒णादि॑तिं॒ स्व॑ः पृथि॒वीं द्यां म॒रुत॒ः पर्व॑ताँ अ॒पः ।
हु॒वे विष्णुं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॒ भगं॒ नु शंसं॑ सवि॒तार॑मू॒तये॑ ॥

पदपाठः

इ॒न्द्रा॒ग्नी इति॑ । मि॒त्रावरु॑णा । अदि॑तिम् । स्व१॒॑रिति॑ स्वः॑ । पृ॒थि॒वीम् । द्याम् । म॒रुतः॑ । पर्व॑तान् । अ॒पः ।
हु॒वे । विष्णु॑म् । पू॒षण॑म् । ब्रह्म॑णः । पति॑म् । भग॑म् । नु । शंस॑म् । स॒वि॒तार॑म् । ऊ॒तये॑ ॥

सायणभाष्यम्

इन्द्रादिसवित्रन्तान् चतुर्दशदेवान् ऊतयेस्मद्रक्षणाय हुवे आह्वयामि स्तौमिवा स्वरित्यदित्यउच्यते स्वरणात् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८