मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४६, ऋक् ४

संहिता

उ॒त नो॒ विष्णु॑रु॒त वातो॑ अ॒स्रिधो॑ द्रविणो॒दा उ॒त सोमो॒ मय॑स्करत् ।
उ॒त ऋ॒भव॑ उ॒त रा॒ये नो॑ अ॒श्विनो॒त त्वष्टो॒त विभ्वानु॑ मंसते ॥

पदपाठः

उ॒त । नः॒ । विष्णुः॑ । उ॒त । वातः॑ । अ॒स्रिधः॑ । द्र॒वि॒णः॒ऽदाः । उ॒त । सोमः॑ । मयः॑ । क॒र॒त् ।
उ॒त । ऋ॒भवः॑ । उ॒त । रा॒ये । नः॒ । अ॒श्विना॑ । उ॒त । त्वष्टा॑ । उ॒त । विऽभ्वा॑ । अनु॑ । मं॒स॒ते॒ ॥

सायणभाष्यम्

उत अपिच नोस्माकं विष्णुर्व्यापकोदेवोमयस्करत् मयइतिसुखनाम सुखंकरोतु उतापि च वातोवायुः अस्रिधोहिंसकः सन् मयस्करत् किंच द्रविणोदाः धनस्यदातासोमोपि मयस्करत् उतापिच ऋभवोनोस्मभ्यं राये धनाय अनुमंसते अनुमन्यन्तां उताश्विनाशिनौच उतत्वष्टादेवः उतविश्वा ऋभूणामन्यतमोदेवः एतेसर्वेपि अनुमंसते यद्वा अनमंस्तइतिप्रत्येकंसंबन्धनीयम् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८