मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४६, ऋक् ५

संहिता

उ॒त त्यन्नो॒ मारु॑तं॒ शर्ध॒ आ ग॑मद्दिविक्ष॒यं य॑ज॒तं ब॒र्हिरा॒सदे॑ ।
बृह॒स्पति॒ः शर्म॑ पू॒षोत नो॑ यमद्वरू॒थ्यं१॒॑ वरु॑णो मि॒त्रो अ॑र्य॒मा ॥

पदपाठः

उ॒त । त्यम् । नः॒ । मारु॑तम् । शर्धः॑ । आ । ग॒म॒त् । दि॒वि॒ऽक्ष॒यम् । य॒ज॒तम् । ब॒र्हिः । आ॒ऽसदे॑ ।
बृह॒स्पतिः॑ । शर्म॑ । पू॒षा । उ॒त । नः॒ । य॒म॒त् । व॒रू॒थ्य॑म् । वरु॑णः । मि॒त्रः । अ॒र्य॒मा ॥

सायणभाष्यम्

उतापिच त्यत् तन्मारुतंशर्धोमरुतांबलं संघोनोस्मानगमदागच्छतु कीदृशंतच्छर्धः दिविक्षयं द्युलोकेवर्तमानं यजतं पूज्यं किमर्थमागमनमितितदुच्यते बर्हिः बर्हिष्यासदे उपवेष्टुं उपविश्यहविः स्वीकारायेत्यर्थः किंच बृहस्पतिर्देवः शर्म सुखं यमत् यच्छतु उतनोस्मभ्यं पूषापि यमत् कीदृशं शर्म वरूथ्यं वारयतिशीतवातादिकमितिवरूथंगृहं तदर्हंवरूथ्यं किंच वरुणादयस्त्रयोपिप्रत्येकंशर्मयच्छन्तु ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८