मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४६, ऋक् ६

संहिता

उ॒त त्ये न॒ः पर्व॑तासः सुश॒स्तयः॑ सुदी॒तयो॑ न॒द्य१॒॑स्त्राम॑णे भुवन् ।
भगो॑ विभ॒क्ता शव॒साव॒सा ग॑मदुरु॒व्यचा॒ अदि॑तिः श्रोतु मे॒ हव॑म् ॥

पदपाठः

उ॒त । त्ये । नः॒ । पर्व॑तासः । सु॒ऽश॒स्तयः॑ । सु॒ऽदी॒तयः॑ । न॒द्यः॑ । त्राम॑णे । भु॒व॒न् ।
भगः॑ । वि॒ऽभ॒क्ता । शव॑सा । अव॑सा । आ । ग॒म॒त् । उ॒रु॒ऽव्यचाः॑ । अदि॑तिः । श्रो॒तु॒ । मे॒ । हव॑म् ॥

सायणभाष्यम्

उतापिच त्ये ते पर्वतासः पर्ववन्तोद्रयः सुशस्तयः शोभनस्तुतयः किंच सुदीतयः सुदानान्द्यश्च त्रामणे पालने नोस्माकं भूवन् भवन्तु भगोदेवोविभक्ता धनानांविभागकर्ता दाता सन् शवसा अन्नेन अवसा रक्षणेनच सहागमदागच्छतु उरुव्यचाः प्रभूतव्याप्तिः अदितिः अदीना देवमाता मेहवं स्तुतिमाह्वानंवा श्रोतु श्रृणोतु ॥ ६ ॥ पत्नीसंयाजेषुदेवपत्नीनांदेवानांपत्नीरित्यादिकेद्वेयाज्यानुवाक्ये सूत्रितंच-देवानांपत्नीरुशतीरवन्तुनइतिद्वेइति । आग्निमारुतशस्त्रेप्येतेदेवानांपत्नीरुशतीरवन्तुनइतिद्वेराकामहमितिद्वेइतितयोर्मध्येप्रथमा ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८