मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४६, ऋक् ७

संहिता

दे॒वानां॒ पत्नी॑रुश॒तीर॑वन्तु न॒ः प्राव॑न्तु नस्तु॒जये॒ वाज॑सातये ।
याः पार्थि॑वासो॒ या अ॒पामपि॑ व्र॒ते ता नो॑ देवीः सुहवा॒ः शर्म॑ यच्छत ॥

पदपाठः

दे॒वाना॑म् । पत्नीः॑ । उ॒श॒तीः । अ॒व॒न्तु॒ । नः॒ । प्र । अ॒व॒न्तु॒ । नः॒ । तु॒जये॑ । वाज॑ऽसातये ।
याः । पार्थि॑वासः । याः । अ॒पाम् । अपि॑ । व्र॒ते । ताः । नः॒ । दे॒वीः॒ । सु॒ऽह॒वाः॒ । शर्म॑ । य॒च्छ॒त॒ ॥

सायणभाष्यम्

देवनांइन्द्रादीना पत्नीः पत्न्यः उशतीः उशत्यः अस्मदीयांस्तुतिंकर्मवा कामयमानाः नोस्मानवन्तुरक्षन्तु तथा नोस्माकं तुजये बलवते पुत्राय वाजसातये अन्नलाभाय संग्रामाय वा प्रावन्तु प्रकर्षेणरक्षन्तु गच्छन्तुवा याः पार्थिवासः पृथिवीसंबन्धिन्यः याश्चापांउदकामां घ्रतेकर्मण्यन्तरिक्षेवर्तन्ते ताहेदे वीर्देव्यः हेसुहवाः शॊभनाह्वानाः यूयं नोस्मभ्यं शर्मयच्छत ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८