मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४६, ऋक् ८

संहिता

उ॒त ग्ना व्य॑न्तु दे॒वप॑त्नीरिन्द्रा॒ण्य१॒॑ग्नाय्य॒श्विनी॒ राट् ।
आ रोद॑सी वरुणा॒नी शृ॑णोतु॒ व्यन्तु॑ दे॒वीर्य ऋ॒तुर्जनी॑नाम् ॥

पदपाठः

उ॒त । ग्नाः । व्य॒न्तु॒ । दे॒वऽप॑त्नीः । इ॒न्द्रा॒णी । अ॒ग्नायी॑ । अ॒श्विनी॑ । राट् ।
आ । रोद॑सी॒ इति॑ । व॒रु॒णा॒नी । शृ॒णो॒तु॒ । व्यन्तु॑ । दे॒वीः । यः । ऋ॒तुः । जनी॑नाम् ॥

सायणभाष्यम्

उतअपिच ग्नाः स्त्रियोदेवपत्नीर्देवपत्न्यः देवाः पतयोयासांताः तादृश्योव्यन्तु हविर्भक्षयन्तु ताविविच्योच्यन्ते इन्द्रस्यपत्नी अग्नाय्यग्नेःपत्नी अश्विनी अश्विनोःपत्नी राट् राजमाना किंच रोदसी रुद्रस्यपत्नीतियास्केनोक्तं एवंसति विषितस्तुकारोदसीत्यत्र यथाआद्युदात्तप्रगृह्यतेनस्तस्तद्वदत्रापिभाव्यं तथापि शाकल्येनमहर्षिणैवमुक्तत्वात्तथैवद्रष्टव्यं वरुणानी वरुणस्यपत्नी आसर्वतः प्रत्येकंश्रृणोतु किंच देवीः पत्नीसंयाजदेव्योव्यन्तुखादन्तुहविः योजनीनां देवजायानां ऋतुः कालः तदभिमानादेव्योपि श्रृण्वन्तु व्यन्तुच अत्रापिच ग्नाव्यन्तुदेवपत्न्यइत्यादिनिरुक्तंद्रष्टव्यम् ॥ ८ ॥

वेदार्थस्यप्रकाशेनतमोहार्दंनिवारयन् ॥ पुमर्थांश्चतुरोदेयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

इतिश्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेणसायणाचार्येणविरचितेमाधवीयेवेदार्थप्रकाशेऋक् संहिताभाष्येचतुर्थाष्टके द्वितीयोध्यायः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८