मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४७, ऋक् १

संहिता

प्र॒यु॒ञ्ज॒ती दि॒व ए॑ति ब्रुवा॒णा म॒ही मा॒ता दु॑हि॒तुर्बो॒धय॑न्ती ।
आ॒विवा॑सन्ती युव॒तिर्म॑नी॒षा पि॒तृभ्य॒ आ सद॑ने॒ जोहु॑वाना ॥

पदपाठः

प्र॒यु॒ञ्ज॒ती । दि॒वः । ए॒ति॒ । ब्रु॒वा॒णा । म॒ही । मा॒ता । दु॒हि॒तुः । बो॒धय॑न्ती ।
आ॒ऽविवा॑सन्ती । यु॒व॒तिः । म॒नी॒षा । पि॒तृऽभ्यः॑ । आ । सद॑ने । जोहु॑वाना ॥

सायणभाष्यम्

यस्यनिःश्वसितंवेदायोवेदेभ्योखिलंजगत् ॥ निर्ममेतमहंवन्देविद्यातीर्थमहेश्वरम् ॥ १ ॥

अथतृतीयोध्यायआरभ्यते तत्रप्रयुंजतीतिसप्तर्चंतृतीयंसूक्तं प्रतिरथस्यार्षंत्रैष्टुभं पूर्वत्रवैश्वदेवं वैतदित्युक्तत्वादिदमपिवैश्वदेवं प्रयुंजतीसप्तप्रतिरथइत्यनुक्रमणिका । विनियोगोलैंगिकः ।

एषोषस्या प्रयुंजती प्राणिनः प्र्स्तुतेषुकर्मसु दिवोद्युलोकादेतिआगच्छति ब्रुवाणा स्तूयमाना कर्मणिकर्तृप्रत्ययः मही महती माता प्रकाशस्यदेवानांवानिर्मात्री दुहितुः भूम्याबोधयन्तीबोधंकुर्वाणा तदुपजीव्यत्वाद्दुहितृत्वमुपचर्यते यद्वा दुहितुर्दिवइतिसंबन्धः उषसोदिवोदुहितृत्वंव्युच्छादुहितर्दिवइत्यादिषुप्रसिद्धम् । अन्यत्रच दिवोदुहिताभुवनस्यपत्नीत्युषसोदुहितृत्वमाम्नातम् । अतइदमधिगम्यते कदाचिद्द्यौरुषसोजायते उषाश्चदिवइति प्रजापतिर्वैस्वांदुहितरमभ्यध्यायद्दिवमित्यन्यआहुरुषसमित्यन्यइतिहिश्रूयते । लिंगंचदृश्यते कार्यकारणभावव्यत्यये अदितेर्दक्षोजायतदक्षाद्वदितिरिति । किंच आविवासन्ती परिचरन्ती युवतिः मिश्रयन्ती सर्वत्रनित्यतरुणीवा मनीषा स्तुतिमती पितृभ्यः तृतीयार्थेपंचमी पितृभिः पालकैर्देवैः सह सदने यागगृहे आसर्वतोजोहुवाना हूयमाना यद्वा पितृभ्यः कर्मणांपालकेभ्योयजमानेभ्यः इष्टप्रापणेनपालकेभ्योवा तेषामर्थायजोहुवाना ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः