मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४७, ऋक् ३

संहिता

उ॒क्षा स॑मु॒द्रो अ॑रु॒षः सु॑प॒र्णः पूर्व॑स्य॒ योनिं॑ पि॒तुरा वि॑वेश ।
मध्ये॑ दि॒वो निहि॑त॒ः पृश्नि॒रश्मा॒ वि च॑क्रमे॒ रज॑सस्पा॒त्यन्तौ॑ ॥

पदपाठः

उ॒क्षा । स॒मु॒द्रः । अ॒रु॒षः । सु॒ऽप॒र्णः । पूर्व॑स्य । योनि॑म् । पि॒तुः । आ । वि॒वे॒श॒ ।
मध्ये॑ । दि॒वः । निऽहि॑तः । पृश्निः॑ । अश्मा॑ । वि । च॒क्र॒मे॒ । रज॑सः । पा॒ति॒ । अन्तौ॑ ॥

सायणभाष्यम्

सौर्योयंतृचः उक्षा उदकस्यकामानांवासेक्ता समुद्रः समुन्दनः यद्वा संमोदन्तेतस्मिन्देवाइतिसमुद्रः अरुषः आरोचमानः सुपर्णः सुगमनः पूर्वस्य पूर्वावयवलक्षणेयंपूर्वदिगवयवस्य पितुः पालकस्यान्तरिक्षस्य योनिमुत्पादकमवयवमाविवेश आविष्टवान् पश्चाद्दिवोमध्येनिहितः पृश्निः प्राश्नुत एनंवर्णइति पृश्निरादित्यः अश्मा सर्वत्रव्याप्तः लुप्तोपमावा अश्मसदृशः रजसोन्तरिक्षस्यान्तौ पूर्वापरभागौ विचक्रमे विक्रमते पातिचजगत् जगद्रक्षार्थंक्रमतइत्यर्थः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः