मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४७, ऋक् ४

संहिता

च॒त्वार॑ ईं बिभ्रति क्षेम॒यन्तो॒ दश॒ गर्भं॑ च॒रसे॑ धापयन्ते ।
त्रि॒धात॑वः पर॒मा अ॑स्य॒ गावो॑ दि॒वश्च॑रन्ति॒ परि॑ स॒द्यो अन्ता॑न् ॥

पदपाठः

च॒त्वारः॑ । ई॒म् । बि॒भ्र॒ति॒ । क्षे॒म॒ऽयन्तः॑ । दश॑ । गर्भ॑म् । च॒रसे॑ । धा॒प॒य॒न्ते॒ ।
त्रि॒ऽधात॑वः । प॒र॒माः । अ॒स्य॒ । गावः॑ । दि॒वः । च॒र॒न्ति॒ । परि॑ । स॒द्यः । अन्ता॑न् ॥

सायणभाष्यम्

चत्वारऋत्विजः ईमेनमादित्यं क्षेमयन्त क्षेममात्मनइच्छन्तोबिभ्रतिधारयन्ति हविर्भिः स्तुतिभिश्च किंच दशदिशोगर्भं गर्भवन्मध्येउत्पन्नमेनं चरसेचरणाय उदयास्तमयव्यवहाराय धपयन्ते गमयन्ति त्रिधातवः त्रिप्रकाराःशीतोष्णवर्षभेदेनत्रिविधाः अस्यादित्यस्य परमाः उत्कृष्टागावोरश्मयोदिवोन्तरिक्षस्यान्तान् परि परितः सद्यः उदयानन्तरमेवचरन्तिगच्छन्ति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः