मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४७, ऋक् ५

संहिता

इ॒दं वपु॑र्नि॒वच॑नं जनास॒श्चर॑न्ति॒ यन्न॒द्य॑स्त॒स्थुरापः॑ ।
द्वे यदीं॑ बिभृ॒तो मा॒तुर॒न्ये इ॒हेह॑ जा॒ते य॒म्या॒३॒॑ सब॑न्धू ॥

पदपाठः

इ॒दम् । वपुः॑ । नि॒ऽवच॑नम् । ज॒ना॒सः॒॑ । चर॑न्ति । यत् । न॒द्यः॑ । त॒स्थुः । आपः॑ ।
द्वे इति॑ । यत् । ई॒म् । बि॒भृ॒तः । मा॒तुः । अ॒न्ये इति॑ । इ॒हऽइ॑ह । जा॒ते इति॑ । य॒म्या॑ । सब॑न्धू॒ इति॒ सऽब॑न्धू ॥

सायणभाष्यम्

जनासोहेजनाऋत्विजः इदंपुरतोदृश्यमानंवपुः शरीरमंडलं निवचनं स्तुत्यंभवतीतिशेषः यन्मंडलंउपजीव्य नद्यश्चरन्ति ग्रवहन्ति आपश्च यन्मंडलमधितस्थुः मंडलाधीनत्वात्तासां ईमेतदुक्तलक्षणं यन्मंडलं द्वे अहोरात्रे मातुर्निर्मातुः मातृस्थानीयादन्तरिक्षादन्ये इहेहजाते इहचेहचसूर्येजाते निष्पन्ने यम्या यम्ये नियमनीयेयुग्मभूतेवा सबन्धु समानबले समानबन्धने उभयोरप्येकएवसूर्योबन्धकोक्षोययोस्तादृश्यौबिभृतोधारयतः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः