मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४७, ऋक् ६

संहिता

वि त॑न्वते॒ धियो॑ अस्मा॒ अपां॑सि॒ वस्त्रा॑ पु॒त्राय॑ मा॒तरो॑ वयन्ति ।
उ॒प॒प्र॒क्षे वृष॑णो॒ मोद॑माना दि॒वस्प॒था व॒ध्वो॑ य॒न्त्यच्छ॑ ॥

पदपाठः

वि । त॒न्व॒ते॒ । धियः॑ । अ॒स्मै॒ । अपां॑सि । वस्त्रा॑ । पु॒त्राय॑ । मा॒तरः॑ । व॒य॒न्ति॒ ।
उ॒प॒ऽप्र॒क्षे । वृष॑णः । मोद॑मानाः । दि॒वः । प॒था । व॒ध्वः॑ । य॒न्ति॒ । अच्छ॑ ॥

सायणभाष्यम्

अस्मैसूर्याय धियः स्तुतीः अपांसि कर्माणिचवितन्वते विस्तारयन्ति यजमानाः पुत्राय पुत्रस्थानीयाय मातरोनिर्मात्र्यः उषसोदिशोवा वस्त्रा वस्त्राणि वयन्ति निष्पादयन्ति वस्त्रसदृशानितेजांसिनिबिडानिसंपादयन्तीत्यर्थः वृषणः सेक्तुः सूर्यस्य उपप्रक्षे उपपर्चने संपर्के सति मोदमानाहृष्यन्तोवध्वोवधूस्थानीयाः रश्मयोदिवस्पथा सूर्यसंबन्धिनामार्गेणाच्छास्मदभिमुखं यन्ति गच्छन्तिप्रसरन्ति ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः