मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४७, ऋक् ७

संहिता

तद॑स्तु मित्रावरुणा॒ तद॑ग्ने॒ शं योर॒स्मभ्य॑मि॒दम॑स्तु श॒स्तम् ।
अ॒शी॒महि॑ गा॒धमु॒त प्र॑ति॒ष्ठां नमो॑ दि॒वे बृ॑ह॒ते साद॑नाय ॥

पदपाठः

तत् । अ॒स्तु॒ । मि॒त्रा॒व॒रु॒णा॒ । तत् । अ॒ग्ने॒ । शम् । योः । अ॒स्मभ्य॑म् । इ॒दम् । अ॒स्तु॒ । श॒स्तम् ।
अ॒शी॒महि॑ । गा॒धम् । उ॒त । प्र॒ति॒ऽस्थाम् । नमः॑ । दि॒वे । बृ॒ह॒ते । साद॑नाय ॥

सायणभाष्यम्

अत्रलिंगसिद्धादेवताः हेमित्रावरुणा मित्रावरुणौ तत् इदंसूक्तंशस्तम् स्तुतमस्तु भवतु हेअग्ने तत्सूक्तंशस्तमस्तु अस्मभ्यं शं सुखाय योर्दुः खानाममिश्रणायेदं शस्तमस्तु वयंचाशीमहि प्राप्नुयाम गाधं स्थितिं उतापिच प्रतिष्ठां स्थितेरविच्छित्तिंचाशीमहि नमोनमस्करोमि दिवे द्योतमानाय सूर्याय बृहते महते साठ्नायाश्रयायविश्वस्य ॥ ७ ॥

कदिप्रियायेतिपंचतुर्थंसूक्तं प्रतिभानुर्नामात्रेयऋषिः जगतीछन्दः विश्वेदेवादेवताः अत्रानुक्रमणिका-कदुपंचप्रतिभानुर्जागतमिति । आभिप्लविकेपंचमेहनिवैश्वदेवशस्त्रेइदंसूक्तंनिविद्धानं सूत्रितंच-कदुप्रियायेतिवैश्वदेवमिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः