मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४८, ऋक् १

संहिता

कदु॑ प्रि॒याय॒ धाम्ने॑ मनामहे॒ स्वक्ष॑त्राय॒ स्वय॑शसे म॒हे व॒यम् ।
आ॒मे॒न्यस्य॒ रज॑सो॒ यद॒भ्र आँ अ॒पो वृ॑णा॒ना वि॑त॒नोति॑ मा॒यिनी॑ ॥

पदपाठः

कत् । ऊं॒ इति॑ । प्रि॒याय॑ । धाम्ने॑ । म॒ना॒म॒हे॒ । स्वऽक्ष॑त्राय । स्वऽय॑शसे । म॒हे । व॒यम् ।
आ॒ऽमे॒न्यस्य॑ । रज॑सः । यत् । अ॒भ्रे । आ । अ॒पः । वृ॒णा॒ना । वि॒ऽत॒नोति॑ । मा॒यिनी॑ ॥

सायणभाष्यम्

अत्रविद्युताग्निसंस्तवः कदु कदा उइतिपूरणः प्रियाय सर्वेषांप्रियभूताय वृष्टिद्वारा हविरादिप्रयोजकत्वात्सर्वप्रियत्वमस्यप्रसिद्धं तादृशाय धाम्ने तेजसे वैद्युताय उत्तरवाक्ये उभ्रेपोवितनोतीतिवक्ष्यमाणत्वादिदंलभ्यते कीदृशाय स्वक्षत्राय स्वभूतबलाय किंच स्वयशसे स्वभूता- न्नाय सर्वमप्यन्नंह्यस्यस्वं महे महते पूज्याय वयं कदा मनामहे स्तवाम गत् उत्तरत्रस्त्रीलिंगनिर्देशात् येतिविपरिणामयितव्यम् या आग्ने- यीशक्तिः आमेन्यस्य समन्तान्मातव्यस्य रजसोन्तरिक्षस्य अपरिमितमपिनभइयदितिसर्वैर्मीयते संबन्धिनि अभ्रे मेघे आअधि मेघस्योपरि अपउदकानि वृष्टिलक्षणानि वितनोति विस्तारयति वृणाना आच्छादयन्तीसेव्यमानावा मायिनी मायेतिप्रज्ञानाम प्रज्ञावतीसती यत् यस्यसंबन्धिनीमाध्यमिकीवागितिवायोज्यम् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः