मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४८, ऋक् ३

संहिता

आ ग्राव॑भिरह॒न्ये॑भिर॒क्तुभि॒र्वरि॑ष्ठं॒ वज्र॒मा जि॑घर्ति मा॒यिनि॑ ।
श॒तं वा॒ यस्य॑ प्र॒चर॒न्त्स्वे दमे॑ संव॒र्तय॑न्तो॒ वि च॑ वर्तय॒न्नहा॑ ॥

पदपाठः

आ । ग्राव॑ऽभिः । अ॒ह॒न्ये॑भिः । अ॒क्तुऽभिः॑ । वरि॑ष्ठम् । वज्र॑म् । आ । जि॒घ॒र्ति॒ । मा॒यिनि॑ ।
श॒तम् । वा॒ । यस्य॑ । प्र॒ऽचर॑न् । स्वे । दमे॑ । स॒म्ऽव॒र्तय॑न्तः । वि । च॒ । व॒र्त॒य॒न् । अहा॑ ॥

सायणभाष्यम्

अत्रपूर्वार्धेइन्द्रउच्यते उत्तरार्धेइन्द्रात्मासूर्यः आहूयतइतिशेषः कैः अहन्येभिः अहनिसंपादितैः अक्तुभीरात्रिभिः तत्रनिष्पन्नैरित्यर्थः तथाविधैर्ग्रावभिः साध्ये साधनशब्दः ग्रावसाध्यैरभिषवैर्निमित्तभूतैः आगत्यात्र सोमीसन् मायिनि वृत्रेनिमित्तेसति वरिष्ठमुरुतरंवज्रं आसर्वतोजिघर्ति चालयतिदीपयतिवा किंच वाशब्दश्चार्थे यस्येन्द्रात्मकस्यादित्यस्य शतं शतसंख्याकारश्मयः स्वेदमे स्वकीयेगृहे आकाशे प्रचरन् प्रचरन्ति किंकुर्वन्तः प्राणिनोनशयन्तः यद्वा अहा अहानिदिवसान् संवर्तयन्तः सम्यक्प्रवर्तयन्तः विचवर्तयन् अहानिनि- वर्तयन्तिगतान्येवपुनः प्रापयन्तिच तपपरिस्पंदाधीनत्वात्प्राणिनामायः क्षयस्याहोरात्रादिव्यवहरस्यच ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः