मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४८, ऋक् ५

संहिता

स जि॒ह्वया॒ चतु॑रनीक ऋञ्जते॒ चारु॒ वसा॑नो॒ वरु॑णो॒ यत॑न्न॒रिम् ।
न तस्य॑ विद्म पुरुष॒त्वता॑ व॒यं यतो॒ भगः॑ सवि॒ता दाति॒ वार्य॑म् ॥

पदपाठः

सः । जि॒ह्वया॑ । चतुः॑ऽअनीकः । ऋ॒ञ्ज॒ते॒ । चारु॑ । वसा॑नः । वरु॑णः । यत॑न् । अ॒रिम् ।
न । तस्य॑ । वि॒द्म॒ । पु॒रु॒ष॒त्वता॑ । व॒यम् । यतः॑ । भगः॑ । स॒वि॒ता । दाति॑ । वार्य॑म् ॥

सायणभाष्यम्

सोग्निश्चतुरनीकः चतुर्दिक्षुप्रसृतज्वालः सन् जिह्वाया ऋंजते गच्छति घृतादिकं यद्वा जिह्वयाचतुरनीकःसन् ऋंजते अलंकरोतिस्वात्मानं किंकुर्वन् चारु चरणीयं तेजोवसानआच्छादयन् वरुणस्तमोवारकःसन् अरिममित्रं यतन् उद्धरन् तस्यतमित्यर्थः तंनविद्म नजानीमः वयं पुरुषत्वता पुरुषत्वेन कामानांपूरकत्वेनवायुक्तं अपरोभावप्रत्ययः पूरणः यतोयं भगोमहानूभजनीयः सविता प्रेरकोदेवोदाति यच्छति वार्यं वरणीयंधनं ॥ ५ ॥

देवंवइतिपंचर्चंपंचमंसूक्तं आत्रेयस्यप्रतिप्रभस्यार्षं त्रैष्टुभं वैश्वदेवम् देवंवः प्रतिप्रभोत्यातृणपाणिरित्यनुक्रमणिका । विनियोग-लैंगिकः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः