मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४९, ऋक् २

संहिता

प्रति॑ प्र॒याण॒मसु॑रस्य वि॒द्वान्त्सू॒क्तैर्दे॒वं स॑वि॒तारं॑ दुवस्य ।
उप॑ ब्रुवीत॒ नम॑सा विजा॒नञ्ज्येष्ठं॑ च॒ रत्नं॑ वि॒भज॑न्तमा॒योः ॥

पदपाठः

प्रति॑ । प्र॒ऽयान॑म् । असु॑रस्य । वि॒द्वान् । सु॒ऽउ॒क्तैः । दे॒वम् । स॒वि॒तार॑म् । दु॒व॒स्य॒ ।
उप॑ । ब्रु॒वी॒त॒ । नम॑सा । वि॒ऽजा॒नन् । ज्येष्ठ॑म् । च॒ । रत्न॑म् । वि॒ऽभज॑न्तम् । आ॒योः ॥

सायणभाष्यम्

असुरस्य शत्रूणांनिरसितुः सवितुः प्रतिप्रयाणं प्रत्यागतिं विद्वान् जानन् सूक्तैः सवितारंदेवं दुवस्य परिचर हेअन्तरात्मन् किंच आयोर्मनुष्याय ज्येष्ठं रत्नंधनंच विभजंतं ददतमित्यर्थः नमसा नमस्कारेण हविषावा विजानन् विशेषेणभावयन्नित्यर्थः यद्वान्तर्णीतण्यर्थोयं ज्ञापयन् उपब्रुवीत स्तौतुभवान् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः