मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ४९, ऋक् ४

संहिता

तन्नो॑ अन॒र्वा स॑वि॒ता वरू॑थं॒ तत्सिन्ध॑व इ॒षय॑न्तो॒ अनु॑ ग्मन् ।
उप॒ यद्वोचे॑ अध्व॒रस्य॒ होता॑ रा॒यः स्या॑म॒ पत॑यो॒ वाज॑रत्नाः ॥

पदपाठः

तत् । नः॒ । अ॒न॒र्वा । स॒वि॒ता । वरू॑थम् । तत् । सिन्ध॑वः । इ॒षय॑न्तः । अनु॑ । ग्म॒न् ।
उप॑ । यत् । वोचे॑ । अ॒ध्व॒रस्य॑ । होता॑ । रा॒यः । स्या॒म॒ । पत॑यः । वाज॑ऽरत्नाः ॥

सायणभाष्यम्

तत्प्रसिद्धं वरूथं वरणीयमस्मदभिमतंधनं नोस्मभ्यं अनर्वा अप्रत्यृतः केनाप्यतिरस्कृतः सवितादेवः प्रयच्छत्वितिशेषः तद्धनं सिन्धवः स्यन्दनशीलाइषय्न्तोगच्छन्त्योनद्यः अनु अनुसृत्य ग्मन् गच्छन्तु धनंदातुंगच्छन्त्वित्यर्थः यद्यस्मात् अध्वरस्य यागस्य होता होमनिष्पादकोहं उपवोचे उपेत्य ब्रवीमि तस्मात्तत्प्रयच्छन्त्वितिशेषः वयंचात्रयोरायोधनस्य बहुविधस्य पतयः स्वामिनः स्याम भवेम वाजरत्नाः अन्नेनबलेनवारमणीयाः अथवा यद्यस्माद्वोचेस्तौमि तस्मात्सविता नोवरूथमागच्छतु तस्मान्नद्यश्चनोवरूथं यज्ञमनुग्मन् अनुगच्छंत्वितिवायोज्यम् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः