मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५०, ऋक् १

संहिता

विश्वो॑ दे॒वस्य॑ ने॒तुर्मर्तो॑ वुरीत स॒ख्यम् ।
विश्वो॑ रा॒य इ॑षुध्यति द्यु॒म्नं वृ॑णीत पु॒ष्यसे॑ ॥

पदपाठः

विश्वः॑ । दे॒वस्य॑ । ने॒तुः । मर्तः॑ । वु॒री॒त॒ । स॒ख्यम् ।
विश्वः॑ । रा॒ये । इ॒षु॒ध्य॒ति॒ । द्यु॒म्नम् । वृ॒णी॒त॒ । पु॒ष्यसे॑ ॥

सायणभाष्यम्

विश्वः सर्वोमर्तोनेतुः देवस्यसवितुरित्यर्थः तस्यसख्यं वुरीत वृणीत विशोजनो रायेधनस्य इषुध्यति पंचमलकारः ईशीत तस्यानुग्र- हात् सर्वोजनोद्युम्नंधनं वृणीत सवितारं पुष्यसे पुष्ट्यै पर्याप्तंधनम् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः