मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५०, ऋक् २

संहिता

ते ते॑ देव नेत॒र्ये चे॒माँ अ॑नु॒शसे॑ ।
ते रा॒या ते ह्या॒३॒॑पृचे॒ सचे॑महि सच॒थ्यै॑ः ॥

पदपाठः

ते । ते॒ । दे॒व॒ । ने॒तः॒ । ये । च॒ । इ॒मान् । अ॒नु॒ऽशसे॑ ।
ते । रा॒या । ते । हि । आ॒ऽपृचे॑ । सचे॑महि । स॒च॒थ्यैः॑ ॥

सायणभाष्यम्

हेनेतर्देव ते तव स्वभूतास्तेवयंयजमानाः येचान्ये इमान् विभक्तिव्यत्ययः इमे होत्रादयः अनुशसे शंसितुंप्रभवन्ति तेपित्वदीयाः यद्वा इमानन्यानिन्द्रादीननुशसे क्रमेणशंसितुंप्रभवन्ति एकैववामहानात्मादेवताससूर्यः सहिसर्वभूतात्मेत्युक्तत्वादितरासांदेवतानां तदन्त- र्भावादितिभावः नकेवलं त्वच्छंसकाएवेत्यार्थः ते उभे वयं रायाधनेन सचेमहीतिसंबन्धः तेहि तेखलु आपृचे आपर्चनीयाः कृत्यार्थे- केन्प्रत्ययः कृन्मेजन्तइत्यव्ययत्वाद्विभक्तेरदर्शनं सचथ्यैः सर्वैः कामैः सचेमहि संगच्छेमहि ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः