मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५०, ऋक् ४

संहिता

यत्र॒ वह्नि॑र॒भिहि॑तो दु॒द्रव॒द्द्रोण्य॑ः प॒शुः ।
नृ॒मणा॑ वी॒रप॒स्त्योऽर्णा॒ धीरे॑व॒ सनि॑ता ॥

पदपाठः

यत्र॑ । वह्निः॑ । अ॒भिऽहि॑तः । दु॒द्रव॑त् । द्रोण्यः॑ । प॒शुः ।
नृ॒ऽमनाः॑ । वी॒रऽप॑स्त्यः । अर्णा॑ । धीरा॑ऽइव । सनि॑ता ॥

सायणभाष्यम्

यत्र यस्मिन् यज्ञे वह्निर्यज्ञस्यवोढा अभिहितोयूयंप्रापितोद्रोण्योयूपार्हःपशुः दुद्रवत् गच्छतियूपंप्रति तत्र नृमणाः यजमानमनाः सविता वीरपस्त्यः वीराऋत्विग्यजमानाः पुत्रभृत्यादयोवा तद्वत् पस्त्यंगृहंयस्यसतादृशः प्रेरितगृहोवा पुत्राद्युपेतगृहप्रदइत्यर्थः सनिता संभक्ताभवति अर्णा अरणकुशलाधीरेव योषिदिव यद्वार्णानि हवींषि अभीलक्ष्यसनिताभवति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः