मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५०, ऋक् ५

संहिता

ए॒ष ते॑ देव नेता॒ रथ॒स्पति॒ः शं र॒यिः ।
शं रा॒ये शं स्व॒स्तय॑ इष॒ःस्तुतो॑ मनामहे देव॒स्तुतो॑ मनामहे ॥

पदपाठः

ए॒षः । ते॒ । दे॒व॒ । ने॒त॒रिति॑ । रथः॒पतिः॑ । शम् । र॒यिः ।
शम् । रा॒ये । शम् । स्व॒स्तये॑ । इ॒षः॒ऽस्तुतः॑ । म॒ना॒म॒हे॒ । दे॒व॒ऽस्तुतः॑ । म॒ना॒म॒हे॒ ॥

सायणभाष्यम्

हेनेतर्देव सवितः ते तव एषरथः पतिः सर्वस्यपालकः रयिः दातव्यधनवान् मत्वर्थोलुप्यते शंकरोत्वितिशेषः वयंच रायेधनस्य शं सुखाय यद्वा रायेधनाय शंसुखायच स्वस्तये अविनाशाय इषस्तुतः एषणीयस्यसवितुः स्तोतारोवयं मनामहे स्तुमः देवस्तुतः देवानां देवस्यवा सवितुःस्तोतारोमनामहे स्तुमः ॥ ५ ॥

अग्नेसुतस्येतिपंचदशर्चंसप्तमंसूक्तं अत्रेयमनुक्रमणिका-अग्नेपंचोनाचतस्रोगायत्र्यः षळुष्णिहस्तिस्रोजगत्यस्त्रिष्टुभोवान्त्येअनुष्टुभा- विति । ऋषिश्चान्यस्मादितिपरिभाषयास्वस्त्यात्रेयऋषिः आदितश्चतस्रोगायत्र्यः पंचम्याद्याःषळुष्णिहः एकादश्याद्यास्तिस्रोजगत्य- स्त्रिष्टुभोवा चतुर्दशीपंचदश्यावनुष्टुभौविश्वेदेवादेवता ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः