मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५१, ऋक् २

संहिता

ऋत॑धीतय॒ आ ग॑त॒ सत्य॑धर्माणो अध्व॒रम् ।
अ॒ग्नेः पि॑बत जि॒ह्वया॑ ॥

पदपाठः

ऋत॑ऽधीतयः । आ । ग॒त॒ । सत्य॑ऽधर्माणः । अ॒ध्व॒रम् ।
अ॒ग्नेः । पि॒ब॒त॒ । जि॒ह्वया॑ ॥

सायणभाष्यम्

हेऋतधीतयः सत्यस्तुतयः अबाध्यकर्मणोवादेवाः अध्वरमस्मद्यज्ञं आगत आगच्छत आगत्यच हेसत्यधर्माणः सत्यस्यधारयितारोयूयं अग्नेर्जिह्वया पिबत आज्यसोमादिकम् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः