मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५१, ऋक् ३

संहिता

विप्रे॑भिर्विप्र सन्त्य प्रात॒र्याव॑भि॒रा ग॑हि ।
दे॒वेभि॒ः सोम॑पीतये ॥

पदपाठः

विप्रे॑भिः । वि॒प्र॒ । स॒न्त्य॒ । प्रा॒त॒र्याव॑ऽभिः । आ । ग॒हि॒ ।
दे॒वेभिः॑ । सोम॑ऽपीतये ॥

सायणभाष्यम्

हेविप्र मेधाविन् विविधकामानांवापूरक हेसन्त्य संबजनीयाग्ने विप्रेभिःउक्तलक्षणैः प्रातर्यावभिः प्रातःकालेआगन्तृभिः देवेभिःदेवैः सार्द्धं आगह्यागच्छ किमर्थं सोमपीतये सोमपानाय ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः