मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५१, ऋक् ५

संहिता

वाय॒वा या॑हि वी॒तये॑ जुषा॒णो ह॒व्यदा॑तये ।
पिबा॑ सु॒तस्यान्ध॑सो अ॒भि प्रयः॑ ॥

पदपाठः

वायो॒ इति॑ । आ । या॒हि॒ । वी॒तये॑ । जु॒षा॒णः । ह॒व्यऽदा॑तये ।
पिब॑ । सु॒तस्य॑ । अन्ध॑सः । अ॒भि । प्रयः॑ ॥

सायणभाष्यम्

हेवायो प्रयोन्नं सोमाख्यं अभि अभिलक्ष्य आयाहि वीतये भक्षणाय जुषाणः प्रीयमाणः हव्यदातये हविर्दात्रेयजमानाय तदर्थं आगत्य- च सुतस्यान्धसः अभिषुतमन्धोन्नं सोमलक्षणं पिब ॥ ५ ॥ पृष्ठ्यस्यतृतीयेहनिप्रउगशस्त्रेऎन्द्रवायवस्तृचः इन्द्रश्चेत्यादिकेद्वेऋचौशंसेत् तयोः प्रथमांद्वितीयांवा आवर्त्य तृचंसंपादयेत् तथाचसू- त्रितं-इन्द्रश्चवायवेषांसुतानामितिद्वयोरन्यतरांद्विरिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः