मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५१, ऋक् ६

संहिता

इन्द्र॑श्च वायवेषां सु॒तानां॑ पी॒तिम॑र्हथः ।
ताञ्जु॑षेथामरे॒पसा॑व॒भि प्रयः॑ ॥

पदपाठः

इन्द्रः॑ । च॒ । वायो॒ इति॑ । ए॒षा॒म् । सु॒ताना॑म् । पी॒तिम् । अ॒र्ह॒थः॒ ।
तान् । जु॒षे॒था॒म् । अ॒रे॒पसौ । अ॒भि । प्रयः॑ ॥

सायणभाष्यम्

हेवायो त्वंचेन्द्रश्चैषां पुरतोगृहीतानां सुतानां अभिषुतानां सोमानां पीतिं पानमर्हथः यस्मादेवं तस्मात् तान् सोमरसान् जुषेथां सेवेथां अरेपसौ अहिंसकौ तदर्थं प्रयः सोमाख्यमन्नमभिलक्ष्यागच्छतमितिशेषः यद्वा प्रयोन्नरूपान् ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः