मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५१, ऋक् ८

संहिता

स॒जूर्विश्वे॑भिर्दे॒वेभि॑र॒श्विभ्या॑मु॒षसा॑ स॒जूः ।
आ या॑ह्यग्ने अत्रि॒वत्सु॒ते र॑ण ॥

पदपाठः

स॒ऽजूः । विश्वे॑भिः । दे॒वेभिः॑ । अ॒श्विऽभ्या॑म् । उ॒षसा॑ । स॒ऽजूः ।
आ । या॒हि॒ । अ॒ग्ने॒ । अ॒त्रि॒ऽवत् । सु॒ते । र॒ण॒ ॥

सायणभाष्यम्

हेअग्ने विश्वेभिः सर्वैः देवेभिः देवैः सजूः संगतः सन् अश्विभ्यांउषसाच सजूः समानप्रीतिः सन् आयाहि आगहि अत्रिवत् अत्रिरिव अत्रेर्यज्ञेयथातथेत्यर्थः यद्वा अत्रिर्यथायज्ञेरमतेतद्वत् सुते अभिषुतेसोमे रण रमस्व ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः