मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५१, ऋक् १२

संहिता

स्व॒स्तये॑ वा॒युमुप॑ ब्रवामहै॒ सोमं॑ स्व॒स्ति भुव॑नस्य॒ यस्पति॑ः ।
बृह॒स्पतिं॒ सर्व॑गणं स्व॒स्तये॑ स्व॒स्तय॑ आदि॒त्यासो॑ भवन्तु नः ॥

पदपाठः

स्व॒स्तये॑ । वा॒युम् । उप॑ । ब्र॒वा॒म॒है॒ । सोम॑म् । स्व॒स्ति । भुव॑नस्य । यः । पतिः॑ ।
बृह॒स्पति॑म् । सर्व॑ऽगणम् । स्व॒स्तये॑ । स्व॒स्तये॑ । आ॒दि॒त्यासः॑ । भ॒व॒न्तु॒ । नः॒ ॥

सायणभाष्यम्

स्वस्तये क्षेमाय वायुमुपब्रवामहै स्तुमइत्यर्थः सोमंचोपब्रवामहै यश्चसोमोभुवनस्य पतिः पालकः सर्वलोकजीवनस्यसोमायतत्वात् तथा सर्वगणं सर्वदेवगणोपेतं बृहस्पतिं बृहतः कर्मणोमंत्रस्यवापालयितारं स्वस्तयेस्तुमः आदित्यासः आदित्याअदितेः पुत्राः सर्वेदेवाः अरुणादयोद्वादशवा नोस्माकं स्वस्तयेभवंतु ॥ १२ ॥ सत्रम्ध्येदीक्षितेव्याधितेसति तस्मिन्नहनि वैश्वदेवशस्त्रेयंतृचोनिविद्धानार्थः सूत्रितंच-स्वस्त्यात्रेयंनिविदंदध्यादिति । स्वस्त्यात्रेय- शब्देनायंतृचोविवक्षितइतितत्रव्याख्यातं तथारूपादिकेसत्ययंतृचोजप्यः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः