मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५२, ऋक् १

संहिता

प्र श्या॑वाश्व धृष्णु॒यार्चा॑ म॒रुद्भि॒रृक्व॑भिः ।
ये अ॑द्रो॒घम॑नुष्व॒धं श्रवो॒ मद॑न्ति य॒ज्ञिया॑ः ॥

पदपाठः

प्र । श्या॒व॒ऽअ॒श्व॒ । धृ॒ष्णु॒ऽया । अर्च॑ । म॒रुत्ऽभिः॑ । ऋक्व॑ऽभिः ।
ये । अ॒द्रो॒घम् । अ॒नु॒ऽस्व॒धम् । श्रवः॑ । मद॑न्ति । य॒ज्ञियाः॑ ॥

सायणभाष्यम्

हेश्यावाश्व एतन्नामकऋषे धृष्णुया धृष्णुत्वं ऋक्वभिः मरुद्भिः स्तुत्यान् मरुतः प्रार्च द्वितीयार्थेतृतीया एवं स्वयमेवसंप्रेष्यति यद्वा यजमानोहोतारंश्यावाश्वंब्रूते यद्वा मरुद्भिर्मरुत्सदृशैरृक्वभिः स्तोतृभिः सहस्तोत्रैर्वार्च स्तुहीत्यर्थः येमरुतोयज्ञियायज्ञार्हाअनुष्वधं प्रत्य- हंहविर्लक्षणान्नप्रदानं स्वधानुपश्चाद्वा अद्रोघमहिंसकं श्रवोन्नंलब्ध्वा मदन्तिहृष्यन्ति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः