मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५२, ऋक् २

संहिता

ते हि स्थि॒रस्य॒ शव॑स॒ः सखा॑य॒ः सन्ति॑ धृष्णु॒या ।
ते याम॒न्ना धृ॑ष॒द्विन॒स्त्मना॑ पान्ति॒ शश्व॑तः ॥

पदपाठः

ते । हि । स्थि॒रस्य॑ । शव॑सः । सखा॑यः । सन्ति॑ । धृ॒ष्णु॒ऽया ।
ते । याम॑न् । आ । धृ॒ष॒त्ऽविनः॑ । त्मना॑ । पा॒न्ति॒ । शश्व॑तः ॥

सायणभाष्यम्

तेहि तेखलु स्थिरस्याविचलितस्य शवसोबलस्य सखायःसन्ति भवन्ति मह्यंधृष्णुया धृष्णवः तेचयामन्ना आइतिचार्थे गमनेपि धृष- द्विनोधर्षणवन्तः त्मना आत्मना अनुग्रहेणैव अस्मदुपकारमनपेक्ष्यैव शश्वतोबहूनस्मान् पुत्रभृत्यादीन् पान्तिरक्षन्ति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः