म॒रुत्सु॑ वो दधीमहि॒ स्तोमं॑ य॒ज्ञं च॑ धृष्णु॒या ।
विश्वे॒ ये मानु॑षा यु॒गा पान्ति॒ मर्त्यं॑ रि॒षः ॥
म॒रुत्ऽसु॑ । वः॒ । द॒धी॒म॒हि॒ । स्तोम॑म् । य॒ज्ञम् । च॒ । धृ॒ष्णु॒ऽया ।
विश्वे॑ । ये । मानु॑षा । यु॒गा । पान्ति॑ । मर्त्य॑म् । रि॒षः ॥
हेअध्वर्युहोत्रादयोवोयूयंमरुत्सु धृष्णुया धर्षकेषु दधीमहि व्यत्ययेनोत्तमः धत्त किं स्तोमं स्तोत्रं यज्ञंच इज्यते अनेनेतियज्ञंहविः तदु- भयंकिमर्थंदीयतइति येमरुतोविश्वेसर्वेपि मानुषा मानुषाणि युगा युगानि सर्वेषुकालेष्वित्यर्थः मर्त्यं मरणधर्माणं यजमानं रिषोहिंसकात् सकाशात्पान्ति रक्षन्ति ॥ ४ ॥