मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५२, ऋक् ६

संहिता

आ रु॒क्मैरा यु॒धा नर॑ ऋ॒ष्वा ऋ॒ष्टीर॑सृक्षत ।
अन्वे॑नाँ॒ अह॑ वि॒द्युतो॑ म॒रुतो॒ जझ्झ॑तीरिव भा॒नुर॑र्त॒ त्मना॑ दि॒वः ॥

पदपाठः

आ । रु॒क्मैः । आ । यु॒धा । नरः॑ । ऋ॒ष्वाः । ऋ॒ष्टीः । अ॒सृ॒क्ष॒त॒ ।
अनु॑ । ए॒ना॒न् । अह॑ । वि॒ऽद्युतः॑ । म॒रुतः॑ । जझ्झ॑तीःऽइव । भा॒नुः । अ॒र्त॒ । त्मना॑ । दि॒वः ॥

सायणभाष्यम्

नरोवृष्टेर्नेतारः ऋष्वाः महान्तोमरुतोरुक्मैः रोचमानैराभरणविशेषैरारोचन्तइतिशेषः उपसर्गश्रुतेः संगतक्रियाध्याहारः तथायुधा- प्रहरणसाधनेनायुधेन आरोचन्ते एते मरुतः ऋष्टीः आयुधविशेषान् असृक्षत प्रक्षिपन्ति मेघभेदार्थं एनान्मरुतोविद्युतोपि जज्झतीरिव शब्दकारिण्यआपइव जज्झतीरापोभवन्तिशब्दकारिण्यइअतिनिरुक्तम् । अन्वहअनुगच्छन्त्येव दिवोद्योतमानस्य मरुद्गणस्य भानुर्दीप्तिः त्मना स्वयमेव अत निरगात् ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः