मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५२, ऋक् ७

संहिता

ये वा॑वृ॒धन्त॒ पार्थि॑वा॒ य उ॒राव॒न्तरि॑क्ष॒ आ ।
वृ॒जने॑ वा न॒दीनां॑ स॒धस्थे॑ वा म॒हो दि॒वः ॥

पदपाठः

ये । व॒वृ॒धन्त॑ । पार्थि॑वाः । ये । उ॒रौ । अ॒न्तरि॑क्षे । आ ।
वृ॒जने॑ । वा॒ । न॒दीना॑म् । स॒धऽस्थे॑ । वा॒ । म॒हः । दि॒वः ॥

सायणभाष्यम्

येमरुतः पार्थिवाः पृथिवीसंबद्धाः सन्तोववृधन्तवर्धन्ते येचोरौ महत्यन्तरिक्षेच ववृधन्त आइतिचार्थे नदीनां नदनवतीनां वृजनेवा- बलेववृधन्त महोमहतः दिवोद्युलोकस्य सधस्थेवा सहस्थानेच ववृधन्त उभयत्रवाशब्दश्चार्थे एवंसर्वत्रवर्धमानामरुतोवृष्ट्यर्थंऋष्टीरसृ- क्षतेतिपूर्वत्रसंबन्धः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः