मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५२, ऋक् ८

संहिता

शर्धो॒ मारु॑त॒मुच्छं॑स स॒त्यश॑वस॒मृभ्व॑सम् ।
उ॒त स्म॒ ते शु॒भे नर॒ः प्र स्य॒न्द्रा यु॑जत॒ त्मना॑ ॥

पदपाठः

शर्धः॑ । मारु॑तम् । उत् । शं॒स॒ । स॒त्यऽश॑वसम् । ऋभ्व॑सम् ।
उ॒त । स्म॒ । ते । शु॒भे । नरः॑ । प्र । स्य॒न्द्राः । यु॒ज॒त॒ । त्मना॑ ॥

सायणभाष्यम्

हेस्तोतः मारुतं शर्धोबलं उदुत्कृष्टं शंस स्तुहि कीदृशं शर्धः सत्यशवसं सत्यवेगं ऋभ्वसं महदतिप्रवृद्धं उतस्मापिच नरोवृष्टेर्नेतारस्ते- मरुतः शुभे उदकार्थं प्रयुजत प्रयुंजत समयोजयन् त्मना आत्मनैव जगद्रक्षाबुध्यैव स्पन्द्राः चलनस्वभावाः पृषतीरित्यर्थः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः